|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.39. अध्यायः 039
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
सनत्कुमारेण नारदम्प्रति प्रलयप्रकारादिकथनम्॥ 1 ॥ तथा भूतादिनिरूपणम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`सनत्कुमार उवाच।
अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि।
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च॥ 13-39-1(82368)
कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः।
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते॥ 13-39-2(82369)
मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम्।
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम्॥ 13-39-3(82370)
भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै।
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः॥ 13-39-4(82371)
ततः सर्वाणि भूतानि स्थावराणि चराणि च।
महाभूतानि दग्धानि स्वां योनिं गमितानि वै॥ 13-39-5(82372)
कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका।
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा॥ 13-39-6(82373)
जगत्प्रलीनं जगति जगच्चापि प्रलीयते।
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा॥ 13-39-7(82374)
ततो मयूखजालेन सूर्यस्त्वापीयते जलम्।
रसात्मा लीयते चार्के तथा ब्राह्मणसत्तम॥ 13-39-8(82375)
अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा।
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते॥ 13-39-9(82376)
तं तथा विस्फुरद्वह्निं वायुर्जरयते महान्।
महता बलवेगेन आदत्ते तं हि भानुमान्॥ 13-39-10(82377)
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्॥ 13-39-11(82378)
तस्य तं निनदं शब्दमादत्ते वै मनस्तदा।
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै॥ 13-39-12(82379)
भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम्।
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते॥ 13-39-13(82380)
सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा।
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम॥ 13-39-14(82381)
विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान्।
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः॥ 13-39-15(82382)
अभिमाने विनष्टे तु महान्ब्रह्मा विराजते।
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम्॥ 13-39-16(82383)
येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना।
मूर्तं जलेचरमपि व्यवसायगुणात्मकम्।
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम्॥ 13-39-17(82384)
एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्॥ 13-39-18(82385)
आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोधिभूतं दिशोधिदैवतं॥ 13-39-19(82386)
वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोधिभूतं विद्युदधिदैवतं स्यात्॥ 13-39-20(82387)
ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योधिदैवतं स्यात्॥ 13-39-21(82388)
आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोधिभूतं वरुणोधिदैवतं स्यात्॥ 13-39-22(82389)
पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोधिभूतं वायुरधिदैवतं स्यात्॥ 13-39-23(82390)
पाञ्चभौतिकमेतच्चतुष्टयं वर्णितम्। अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः॥ 13-39-24(82391)
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात्॥ 13-39-25(82392)
हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात्॥ 13-39-26(82393)
पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात्॥ 13-39-27(82394)
उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात्। 13-39-28(82395)
वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात्॥ 13-39-29(82396)
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात्॥ 13-39-30(82397)
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात्। 13-39-31(82398)
बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं स्यात्॥ 13-39-32(82399)
एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च। कस्मात्क्रीडार्थम्॥ 13-39-33(82400)
यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च॥ 13-39-34(82401)
यथाऽर्णवादूर्मिमालानिच यश्चोर्ध्वमुत्तिष्ठते सम्हरते च।
यथा चान्तरिक्षादभ्रमाकाशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत्।
एवमव्यक्तो गुणान्सृजति सम्हरति च॥ 13-39-35(82402)
यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो भगवान्लोकान्प्रकाशयति प्रवेशयते च॥ 13-39-36(82403)
एवं चेतनश्च भगवान्पञ्चविंशः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च। भगवतोऽव्यक्तस्य क्रियावतोक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः॥ 13-39-37(82404)
भीष्म उवाच। 13-39-38x(6840)
इत्येतन्नारदायोक्तं कुमारेण च धीमता।
एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत्॥' ॥ 13-39-38(82405)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|